MP-BOARD-CLASS-10-SANSKRIT Exam Pape – 2024 | संस्कृत एग्जाम पेपर 2024
निर्देशा
(i) सर्वे प्रश्नाः अनिवार्याः सन्ति।
(ii) प्रश्नानां सम्मुखे अङ्काः प्रदत्ताः ।
(iii) सर्वेषां प्रश्नानाम् उत्तराणि संस्कृतभाषायां देयानि ।
प्रश्न 1. उचितं विकल्पं चित्वा लिखत
(i) ‘बालकान्’ इत्यस्मिन् पदे विभक्तिः अस्ति
(अ) प्रथमा (ब) द्वितीया
(स) पञ्चमी (द) षष्ठी
(ii) ‘ धेनवः’ इत्यस्मिन् पदे वचनम् अस्ति
(अ) एकवचनम् (ब) द्वितीया
(स) बहुवचनम् (द) अन्यवचनम्
(iii) ‘नदीनाम्’ इत्यस्मिन् पदे विभक्तिः अस्ति
(अ) चतुर्थी ( ब ) पञ्चमी
( स ) षष्ठी (द) सप्तमी
(iv) ‘तस्मिन्’ इत्यस्मिन् पदे वचनम् अस्ति
(अ) एकवचनम् (ब) द्विवचनम्
(स) बहुवचनम् (द) अन्यवचनम्
(v)’अस्माभिः सर्वदा सत्यं वक्तव्यम् । इत्यस्मिन् वाक्ये अव्ययम् अस्ति
(अ) अस्माभिः ( ब ) सर्वदा
(स) सत्यं (द) वक्तव्यम्
(vi) अधोलिखितेषु शब्देषु अव्ययपदं नास्ति –
(अ) तत्र (ब) सर्वत्र
(स) रमा (द) सदा
प्रश्न 2. प्रदत्तैः शब्दैः रिक्तस्थानानि पूरयत् —
( धावति, जननी, दुर्लभः समलम्, सत्वरम् जलम्, श्वेतः )
(i) ‘श्वेतः अश्वः धावति ।’ इत्यस्मिन् वाक्ये………. विशेषणपदं अस्ति ।
(ii) ‘जननी तुल्यवत्सला ।’ इत्यस्मिन् वाक्ये………. विशेष्यपदं अस्ति ।
(iii) ‘सलिलम्’ इतस्य पदस्य……… पर्यायपदं अस्ति ।
(iv) ‘निर्मलम्’ इत्यस्य पदस्य………. विलोमपदं अस्ति ।
(v) ‘सुलभः’ इत्यस्य पदस्य………. विलोमपदं अस्ति ।
(vi) ‘शीघ्रम्’ इत्यस्य पदस्य………. पर्यायपदं अस्ति ।
प्रश्न 3. युग्ममेलनं कुरूत
(अ) | (ब) |
(i) पुस्तकालयः
(ii) निश्छलः (iii) सूर्योदय: (iv) अनुरूपम् (v) चौरभयम् (vi) त्रिभुवनम् |
(क) तत्पुरुषसमास
(ख) यणस्वर सन्धिः (ग) द्वन्द्वसमास (घ) वृद्धि स्वर सन्धिः (ङ) गुण स्वर सन्धिः (च) निः + चलः (छ) बहुब्रीहिसमास (ज )अव्ययीभावसमास (झ) निः + छलः (ञ) कर्मधारयसमास (ट) दीर्घस्वर सन्धिः (ठ) द्विगुसमास |
प्रश्न 4. एकपदेन उत्तरं लिखत —
(i) ‘आदाय’ इत्यस्मिन् पदे कः प्रत्ययः अस्ति ?
(ii) ‘कथयितुम्’ इत्यस्मिन् पदे कः प्रत्ययः अस्ति ?
(iii) ‘पा + क्त्वा’ संयुज्य किम् पदं भविष्यति ?
(iv) अनिशं महानगरमध्ये किं प्रचलति ?
(v) दुर्बले सुते कस्याः अधिका कृपा भवति ?
(vi) पिता पुत्राय बाल्ये किं यच्छति ?
प्रश्न 5. शुद्धवाक्यानां समक्षम् ‘आम्’ अशुद्धवाक्यानां समक्षम् ‘न’ इति लिखत
(i) ‘लभते’ इत्यस्मिन् पदे प्रथमपुरुषः अस्ति ।
(ii) ‘आसीत्’ इत्यस्मिन् पदे बहुवचनम् अस्ति ।
(iii) ‘पिबति’ इत्यस्मिन् पदे एकवचनम् नास्ति ।
(iv) ‘अपठत्’ इत्यस्मिन् पदे लङ्लकारः अस्ति ।
(v) ‘निर्गच्छति’ इति पदे निर् उपसर्गः अस्ति ।
(vi) ‘प्रत्युपकारः’ इति पदे ‘प्र’ उपसर्गः अस्ति ।
( प्रश्न क्रमांकः 6 तः 10 पर्यन्तं प्रश्नानाम् उत्तराणि पूर्णवाक्येन लिखत – )
प्रश्न 6. कुशलवयोः वंशस्य कर्ता कः ?
अथवा
बुद्धिमती केन उपेता पितुर्गृहं प्रति चलिता ?
प्रश्न 7. सुरभिः इन्द्रस्य प्रश्नस्य किमुत्तरं ददाति ?
अथवा
अस्माभिः कीदृशः वृक्षः सेवितव्यः ?
प्रश्न 8. मयूरः कथं नृत्यमुद्रायां स्थितः भवति ?
अथवा
अन्तेप्रकृतिमाता प्रविश्य सर्वप्रथमं किं वदति ?
प्रश्न 9. भूकम्पस्य केन्द्रबिन्दुः कः जनपदः आसीत् ?
अथवा
समस्तराष्ट्रं कीदृशे उल्लासे मग्नम् आसीत् ?
प्रश्न 10. मीनः कदा दीनां गतिं प्राप्नोति ?
अथवा
कानि पूरयित्वा जलदः रिक्तः भवति ?
अथवा
प्रश्न 11.रेखाङ्कितपदमाधृत्य प्रश्ननिर्माणं कुरूत – ( कोऽपि द्वे)
(i) धेनूनाम् माता सुरभिः आसीत् ।
(ii) चातकः वने वसति ।
(iii) मयूरस्य नृत्यं प्रकृतेः आराधना ।
प्रश्न 12. अधोलिखितानि वाक्यानि कः कं प्रति कथयति – ( कोऽपि द्वे )
(i) भवान् कुतः भयात् पलायितः । कः कम्
(ii) किं कुपिता एवं भणति उत प्रकृतिस्था ? कः कम
(iii) अनृतं वदसि चेत् काकः दशेत् । कः कम्
प्रश्न 13. प्रश्नपत्रे समागतान् श्लोकान् विहाय स्वपाठ्यपुस्तकस्य सुभाषितएकं लिखत ।
प्रश्न 14. अधोलिखितेषु अशुद्धकारकवाक्यानां शुद्धिः करणीयाः -( कोऽपि द्वे)
(i) वृक्षेण पत्राणि पतन्ति ।
(ii) गुरुम् नमः ।
(iii) विद्यालयम् परितः वृक्षाः सन्ति
प्रश्न 15. रिक्तस्थानानि पूरयत ( कोऽपि चत्वारि )
(i) काकः …….. भवति ।
(ii) भूकम्पित समये……… गमनमेव उचितं भवति ।
(iii) पर्यावरणस्य संरक्षणम् ……… प्रकृतेः आराधना ।
(iv) ………. परभृत् अपि कथ्यते ।
(v) ……… समयस्य सदुपयोगः करणीयः ।
(vi) मयूरः……… इति नाम्नाऽपि ज्ञायते ।
प्रश्न 16. अधोलिखितानि वाक्यानि घटनाक्रमानुसारेण लिखत –
(i) जम्बुककृतोत्साहः व्याघ्रः पुनः काननम् आगच्छत् ।
(ii) मार्गे सा एकं व्याघ्रम् अपश्यत् ।
(iii) प्रत्युत्पन्नमतिः सा शृगालम् आक्षिपन्ती ।
(iv) व्याघ्रः व्याघ्रमारी इयमिति मत्वा पलायितः ।
प्रश्न 17. वाच्यपरिवर्तनं कुरुत – ( कोऽपि द्वे )
(i) छात्रः ग्रन्थं पठति । (कर्मवाच्ये)
(ii) त्वया सत्यं कथितम् (कर्तृवाच्ये )
(iii) काकः पिकस्य संततिं पालयति । ( कर्मवाच्ये)
प्रश्न 18. अधोलिखितम् गद्यांशं पठित्वा प्रश्नानाम् उत्तराणि लिखत-
कश्चन निर्धनो जनः भूरि परिश्रम्य किञ्चिद् वित्तमुपार्जितवान् । तेन वित्तेन स्वपुत्रम् एकस्मिन् महाविद्यालये प्रवेशं दापयितुं सफलो जातः । तत्तनयः तत्रैव छात्रावासे निवसन् अध्ययने संलग्नः समभूत । एकदा स पिता तनूजस्य रुग्णतामाकर्ण्य व्याकुलो जातः पुत्रं द्रष्टुं च प्रस्थितः । परमर्थकाये॑न पीड़ितः स बसयानं विहाय पदातिरेव प्राचलत् ।
प्रश्नाः –
(i) निर्धनो जनः किम् उपार्जितवान् ?
(ii) सः कुत्र सफलो जातः ?
(iii) तत्तनयः कस्मिन् संलग्नः समभूत ?
अथवा –
पञ्चोत्तर द्विसहस्रतमे ख्रीष्टाब्दे (2005 ईस्वीये वर्षे) अपि कश्मीर प्रान्ते पाकिस्तान-देशे च धरायाः महत्कम्पनं जातम् । यस्मात्कारणात् लक्षपरिमिताः जनाः अकालकालं कवलिताः । पृथ्वी कस्मात्प्रकम्पते इति विषये वैज्ञानिकाः कथयन्ति यत् पृथिव्या अन्तर्गर्भे विद्यमानाः बृहत्यः पाषाण- शिलाः यदा संघर्षणवशात् त्रुट्यन्ति तदा जायते भीषणं संस्खलनम्, संस्खलनजन्यं कम्पनञ्च । तदैव भयावहकम्पनं धरायाः उपरितलमप्यागत्य महाकम्पनं जनयति येन महाविनाशदृश्यं समुत्पद्यते ।
प्रश्नाः –
(i) कश्मीर – प्रान्ते कदा धरायाः महत्कम्पनं जातम् ?
(ii) कति जनाः अकात्त्वकालं कवलिताः ?
(iii) पृथ्वी कस्मात्प्रकम्पते इति विषये के कथयन्ति ?
प्रश्न 19. अधोलिखितम् पद्यांशं पठित्वा प्रश्नानाम् उत्तराणि लिखत –
गुणी गुणं वेत्ति न वेत्ति निर्गुणो,
बली बलं वेत्ति न वेत्ति निर्बलः ।
पिको वसन्तस्य गुणं न वायसः
करी च सिंहस्य बलं न मूषकः ॥
प्रश्नाः –
(i) गुणी किं वेत्ति ?
(ii) बली किं वेत्ति ?
(iii) पिको कस्य गुणं वेत्ति ?
अथवा
कज्जलमलिनं धूमं मुञ्चति शतशकटीयानम् ।
वाष्पयानमाला संधावति वितरन्ती ध्वानम् ॥
यानानां पक्तयो ह्यनन्ताः कठिनं संसरणम् ।
शुचि – पर्यावरणम् ॥
प्रश्न 20. अधोलिखितम् नाट्यांशं पठित्वा प्रश्नानाम् उत्तराणि लिखत –
रामः- अतिदीर्घः प्रवासोऽयं दारुणश्च । (विदूषकमवलोक्य जनान्तिकम्) कुतूहलेनाविष्टो मातरमनयोनमितो वेदितुमिच्छामि । न युक्तं च स्त्रीगतमनुयोक्तुम्, विशेषतस्तपोवने । तत् कोऽत्राभ्युपायः ?
विदूषकः- ( जनान्तिकम् ) अहं पुनः पृच्छामि । ( प्रकाशम् ) किं नामधेया युवयोर्जननी ?
लवः- तस्याः द्वे नामनी ?
विदूषकः- कथमिव ?
लवः- तपोवनवासिनो देवीति नाम्नाह्वयन्ति भगवान् वाल्मीकिर्वधूरिति ।
प्रश्नाः-
(i) मातरमनयोनमिं कः वेदितुम् इच्छति ?
(ii) कस्याः द्वे नामनी ?
(iii) के देवी इति नाम्नाह्वयन्ति ?
अथवा
सिंह: – तृष्णीं भव मोः । युवामपि मत्सदृशौ भक्षकौ न तु रक्षकौ । एते वन्यजीवाः भक्षकं रक्षकपदयोग्यं न मन्यते अत एव विचारविमर्शः प्रचलितः ।
बकः- सर्वथा सम्यगुक्तम् सिंहमहोदयेन । वस्तुतः एव सिंहेन बहुकालपर्यन्तंशासनं कृतम् परमधुना तु कोऽपि पक्षी एव राजेति निश्चेतव्यम् अत्र तु संशीतिलेशस्यापि अवकाशः एव नास्ति ।
सर्वेपक्षिणः- (उच्चैः ) आम् आम् – कश्चित् खगः एव एव वनराजः भविष्यति इति ।
प्रश्नाः-
(i) वन्यजीवाः किं रक्षकपदयोग्यं न मन्यते ?
(ii) केन बहुकालपर्यन्तं शासनं कृतम् ?
(iii) खगः एव कः भविष्यति इति ?
प्रश्न 21. अधोलिखितम् अपठितगद्यांशं पठित्वा प्रश्नानाम् उत्तराणि लिखत – ( कोऽपि चत्वारि )
हरियाणाराज्ये यमुनानगरमण्डले एकः संस्कृतपरिवारः अस्ति। तस्मिन् गृहे सर्वे संस्कृते सम्भाषणं कुर्वन्ति। तत्र पशवोऽपि संस्कृतम् अवबोद्धुं समर्थाः सन्ति । तस्मिन् गृहे अभिमन्युः नाम एकः युवकः अस्ति। सोऽपि संस्कृतं वदति । एकदा तत्र एकः संस्कृत – प्राध्यापकः आगतवान्। तेन सह अभिमन्युः संस्कृतेन सम्भाषणं कृतवान्। तस्य युवकस्य प्रतिभां दृष्टवा प्राध्यापकः अभिमन्यवे शतं रूप्यकाणि दत्तवान् । तस्मात् दिनात् तस्य मनसि संस्कृतं प्रति महती अभिरुचिः समुत्पन्ना । सः प्रतिदिनं गीतायाः श्लोकान् पठित्वा पठित्वा सर्वान् श्लोकान् अस्मरत् ।
प्रश्नाः
(i) संस्कृतपरिवारः कुत्र अस्ति ?
(ii) प्राध्यापकः कस्मै शतं रुप्यकाणि दत्तवान् ?
(iii) प्राध्यापकः अभिमन्यवे शतं रुप्यकाणि किमर्थं दत्तवान् ?
(iv) युवकः कथं गीतायाः श्लोकान् अस्मरत् ?
(v) गद्यांशस्य उचितं शीर्षकं लिखत ।